Arthsangrah & Sakhyakarika

प्रिय विद्यार्थियों, इस पोस्ट में Arthsangrah & Sakhyakarika है। जो संस्कृत की विविध प्रतियोगी परिक्षाओं NET JRF, TGT PGT तथा विश्वविद्यालय स्तरीय परीक्षाओं के लिए अत्यंत उपयोगी है।

Q1. समुचितं मेलयत – [RPSC AP SAMANYA DARSHAN 1 2024]
List-I
List-I
A. बुद्धिः
I. सङ्कल्पः
B. चक्षुरिन्द्रियम्
II. अध्यवसायः
C. वागिन्द्रियम्
III. रूपम्
D. मनः
IV. वचनम्
समुचितम् उत्तरं चिनुत –

क). I III IV II

ख). IV III I II

ग). II III IV I

घ). IV III II I

✅ सही उत्तर:- ग). II III IV I

अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।
सात्त्विकमेतद्रूपं तामसमस्माद् विपर्यस्तम् ॥ २३॥

उभयात्मकमत्र मनः सङ्कल्पकमिन्द्रियं च साधर्म्यात् ।
गुणपरिणामविशेषान् नानात्वं बाह्यरभेदाच्च॥ २७॥

बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनरत्वगाख्यानि ।
वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियान्याहुः ॥ २६॥
(यहां बुद्धीन्द्रिय का अर्थ ज्ञानेन्द्रिय से है )

Q2. साङ्ख्यमते अहङ्कारस्य कारणम् [RPSC AP SAMANYA DARSHAN 1 2024]

क). अज्ञानम्

ख). पुरुषः

ग). आकाशः

घ). बुद्धिः

✅ सही उत्तर:- घ). बुद्धिः
प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः ।
तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ २२॥
(महान् का अर्थ बुद्धि भी होता है)

Q3. त्रैगुण्यविपर्ययात् कस्य साक्षित्वं सिद्धयति ? [RPSC AP SAMANYA DARSHAN 1 2024]

क). प्रधानस्य

ख). पुरुषस्य

ग). अहङ्कारस्य

घ). आकाशस्य

✅ सही उत्तर:- ख).- पुरुषस्य
सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययाद् अधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थ प्रवृत्तेश्च ॥ १७॥
जननमरणकरणानां प्रतिनियमाद् अयुगपत् प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥ १८॥
तस्माच्च (त्रैगुण्यप्रकृतेः) विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च ॥ १९॥

Q4. प्रतिविषयाध्यवसायो दृष्टमित्यत्र “अध्यवसायः” इति शब्दस्यार्थः [RPSC AP SAMANYA DARSHAN 1 2024]

क). कर्मेन्द्रियम्

ख). बुद्धिः

ग). अर्थविप्रकृष्टमिन्द्रियम्

घ). बुद्धिव्यापारो ज्ञानम्

✅ सही उत्तर:- घ). बुद्धिव्यापारो ज्ञानम्
प्रतिविषये इन्द्रिये, अध्यवसायः बुद्धिव्यापारो, ज्ञानम् प्रतिविषयाऽध्यवसायः = अर्थ (घटादि) संबद्धचक्षुरादीन्द्रियजन्या चित्तवृत्तिर्घटाद्याकारात्मिका प्रत्यक्षं प्रमाणमित्यर्थः। ( सांख्यतत्वकौमुदी से प्रेरित अभिनवराजलक्ष्मीटीका)

Q6. गुणवैषम्यविमर्दात् प्रत्ययसर्गस्य भेदाः सन्ति । [RPSC AP SAMANYA DARSHAN 1 2024]

क). पञ्चाशत्

ख). पञ्चपञ्चाशत्

ग). पञ्चविंशतिः

घ). एकपञ्चाशत्

✅ सही उत्तर:- क). पञ्चाशत्
एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
गुणवैषम्यविमर्दात् तस्य च भेदास्तु पञ्चाशत् ॥ ४६॥

Q7. एतेषु अव्यक्तसाधको हेतुः नास्ति [RPSC AP SAMANYA DARSHAN 1 2024]

क). शक्तितः प्रवृत्तेः

ख). भोक्तृभावात्

ग). कारणकार्यविभागात्

घ). परिमाणात्

✅ सही उत्तर:- ख). भोक्तृभावात्

 

भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद् वैश्वरूपस्य ॥१५॥

कारणम् अस्ति अव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च ।
परिणामतः सलिलवत्प्रतिप्रतिगुणाश्रयविशेषात् ॥ १६॥

भेदानां कारणम् अव्यक्तं अस्ति

महदादि पदार्थों के भेदों का कारण (cause) अव्यक्त होता है परिणामादि हेतु के होने से।

भोक्तृभाव पुरुष का विशेषण है प्रकृति का नहीं।

Q8. समुचितं मेलयत – [RPSC AP SAMANYA DARSHAN 1 2024]
List-I
List-2
A. मूल प्रकृतिः
I. प्रकृति-विकृतिः
B. महत्तत्त्वम्
II. केवल-विकृतिः
C. आकाशः
III. न प्रकृतिः न विकृतिः
D. पुरुषः
IV. अविकृतिः
समुचितम् उत्तरं चिनुत –

क). I II III I

ख). IV I II III

ग). IV III II I

घ). II I IV III

✅ सही उत्तर:- ख). IV I II III

मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
(आकाशादिकः)षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ ३॥

Q9. पक्षेऽप्राप्तस्य प्रापको विधिः भवति – [UGC NET DEC 2025]

क). परिसंख्याविधिः

ख). नियमविधिः

ग). अपूर्वविधिः

घ). उत्पत्तिविधिः

✅ सही उत्तर:- ख). नियमविधिः

पक्षे अप्राप्तस्य प्रापको विधिर्नियमविधिः
यथा – व्रीहीन् अवहन्ति

Q10. सांख्यनये माध्यस्थ्यं कस्य धर्मः ? [UGC NET DEC 2025]

क). प्रकृतेः

ख). बुद्धेः

ग). अहङ्कारस्य

घ). पुरुषस्य

✅ सही उत्तर:- घ). पुरुषस्य
तस्माच्च (त्रैगुण्यप्रकृतेः) विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य
कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च ॥ १९॥

Q11. अर्थसङ्ग्रहानुसारम् अधस्तनाः वेदिविधाः यथाक्रमं लेखनीयाः –[UGC NET JUNE 2025]
A. अर्थवादः
B. मन्त्रः
C. निषेधः
D. नामधेयः
अधस्तनेषु समुचितं विकल्पं चिनुत-

क). A, B, C, D

ख). D, C, B, A

ग). A, D, C, B

घ). B, D, C, A

✅ सही उत्तर:- घ). B, D, C, A
अथ को वेद इति चेदुच्यते? अपौरूषेयं वाक्यं वेदः।
स च विधिमन्त्रनामधेयनिषेधार्थवादभेदात् पञ्चविधः

Q12. भावना अस्ति –

क) बौद्धिकव्यापारविशेषः

ख) आत्मिकव्यापारविशेषः

ग) मानसिकव्यापारविशेषः

घ) शारीरिकव्यापारविशेषः

✅ सही उत्तर:- ग) मानसिकव्यापारविशेषः

Q13. साङ्ख्यकारिकानुसारं प्रत्ययसर्गस्यावान्तरभेदौ चिनुत-[UGC NET JUNE 2025]
A. विपर्ययः, शक्तिः
B. विपर्ययः, अशक्तिः
C. तुष्टिः, सिद्धिः
D. अतुष्टिः, सिद्धिः
अधस्तनेषु समुचितं विकल्पं चिनुत-

क). A, B केवलम्

ख). B, D केवलम्

ग). B, C केवलम्

घ). A, D केवलम्

✅ सही उत्तर:- ग). B, C केवलम्
एष प्रत्ययसर्गो विपर्यय-अशक्ति-तुष्टि-सिद्धि-आख्यः ।
गुणवैषम्यविमर्दात् तस्य च भेदास्तु पञ्चाशत् ॥ ४६॥

आशा है कि आपको Arthsangrah & Sakhyakarika उपयोगी और जानकारीपूर्ण लगा होगा। ऐसी ही उपयोगी जानकारी और मार्गदर्शन के लिए जुड़े रहें gopath.in & boks.in के साथ आपका सहयोग और विश्वास ही हमारी प्रेरणा है।

इसे भी पढ़ें  –

इसे भी पढ़ें :- UGC NET DEC 2025 PYQs Part – 1
इसे भी पढ़ें :- UGC NET JUN 2025 PYQs Part – 1

Sharing Is Caring:

Leave a Comment