सांख्यकारिका बहुविकल्पीय प्रश्न Sankhyakarika MCQs

प्रिय विद्यार्थियों, इस पोस्ट में सांख्यकारिका बहुविकल्पीय प्रश्न Sankhyakarika MCQs है। जो संस्कृत की विविध प्रतियोगी परिक्षाओं NET JRF, TGT PGT तथा विश्वविद्यालय स्तरीय परीक्षाओं के लिए अत्यंत उपयोगी है।

1. अतीन्द्रियाणां पदार्थानां प्रतीतिः सांख्यदृष्ट्या कस्मात् भवति ? [UPPSC AP 2017]

क).उपमानात्

ख). सामान्यतो दृष्टादनुमानात् आप्तागमात् च

ग).दृष्टात्

घ).शेषवदनुमानात्

✅ सही उत्तर:- ख). सामान्यतो दृष्टादनुमानात् आप्तागमात् च

सामान्यतस्तु दृष्टाद् अतीन्द्रियाणां प्रतीतिरनुमानात् ।
तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम् ॥ ६॥

अतीन्द्रियपदार्थ (पुरुषादि) की प्रतीति सामान्यतोदृष्ट अनुमान से होती है यदि सामान्यतोदृष्ट अनुमान से भी अतीन्द्रियपदार्थ (पुरुषादि) की प्रतीति न हो तब आप्त प्रमाण से सिद्ध होती है।

वाचस्पति मिश्र ने अनुमानात् पद से शेषवदनुमान को भी माना है पर विकल्प के अनुसार ख). सामान्यतो दृष्टादनुमानात् आप्तागमात् च यही सही है।

2. सांख्यकारिकायाः कारिकांशः न प्रकृतिः न विकृतिः कं सूचयति ? [UPPSC AP 2017]

क). पुरुषम्

ख). महाभूतसंघम्

ग). मोक्षम्

घ). संसारोत्तरं तत्त्वम्

✅ सही उत्तर:- क). पुरुषम्

मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ ३॥

4. सांख्यप्रवचनसूत्रस्य लेखकः कः ? [MPPSC SET 2024]

क). ईश्वरकृष्णः

ख). पतञ्जलिः

ग). कपिलः

घ). जैमिनी

✅ सही उत्तर:- ग). कपिलः

5. भेदानां परिमाणात् इत्यनेन कस्य सिद्धिर्भवति ? [MPPSC SET 2024]

क). व्यक्तस्य

ख). अव्यक्तस्य

ग). पुरुषस्य

घ). ईश्वरस्य

✅ सही उत्तर:- ख). अव्यक्तस्य

भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद् वैश्वरूपस्य ॥१५॥

कारणम् अस्ति अव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च ।
परिणामतः सलिलवत्प्रतिप्रतिगुणाश्रयविशेषात् ॥ १६॥

भेदानां कारणम् अव्यक्तं अस्ति

महदादि पदार्थों के भेदों का कारण (cause) अव्यक्त होता है परिणामादि हेतु के होने से।

6. प्रकृतिविकृतयः कति संख्यकाः भवन्ति ? [MPPSC AP 2022]

क). पञ्च

ख). षट्

ग). सप्त

घ). अष्ट

✅ सही उत्तर:- ग). सप्त

मूलप्रकृतिरविकृतिर्महदाद्याः  प्रकृतिविकृतयः सप्त
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ ३॥

7. प्रमेयसिद्धिः भवति [MPPSC AP SANSKRIT PRACHYA 2024]

क). आप्तश्रुतेः

ख). अनुमानात्

ग). प्रमाणात्

घ). दृष्टात्

✅ सही उत्तर:- ग). प्रमाणात्

दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद् हि ॥ ४॥

प्रमेय की सिद्धि प्रमाणों से ही होती है।

8. पुरुषबहुत्वस्य साधकं न भवति [MPPSC AP SANSKRIT PRACHYA 2024]

क). त्रैगुण्यम्

ख). जननप्रतिनियमः

ग). मरणप्रतिनियमः

घ). अयुगपत्प्रवृत्तिः

✅ सही उत्तर:- क). त्रैगुण्यम्

जननमरणकरणानां प्रतिनियमाद् अयुगपत् प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥ १८॥

जननप्रतिनियम,मरणप्रतिनियम,अयुगपत्प्रवृत्ति पुरुष के बहुत्व का करण होता है परन्तु त्रैगुण्यता नहीं अपितु त्रैगुण्यविपर्ययता करण होती है। तात्पर्य है कि सभी आत्माएँ जननप्रतिनियम,मरणप्रतिनियम,अयुगपत्प्रवृत्ति (अलग रहने की प्रवृत्ति) के द्वारा ही प्रमाणित होते है उस आत्मा में त्रिगुणता नही होती उससे विपरीत स्वभाव होता है।

9. उपष्टम्भकं भवति [MPPSC AP SANSKRIT PRACHYA 2024]

क). सत्त्वम्

ख). रजः

ग). तमः

घ). सत्त्वंरजश्च

✅ सही उत्तर:- ख). रजः

सत्त्वं लघु प्रकाशकमिष्टम् उपष्टम्भकं चलं च रजः
गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ १३॥

उपष्टम्भकं – वृष (बैल) का वृष (अन्य बैल) के दर्शन से उत्पन्न उत्कट उत्साह। (गौडपादभाष्य)

10. स्वोत्पत्तेः प्राक् कार्यं कारणे केन रूपेण तिष्ठति ? [MPPSC SET 2024]
(सांख्यमते) –

क). असद्रूपेण

ख). सद्रूपेण

ग). सदसद्रूपेण

घ). मिथ्यारूपेण

✅ सही उत्तर:- ख). सद्रूपेण

असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ ९॥

सत्कार्यवाद के कारण जो कार्य है वह अपने कारण में सत रूप से विद्यमान रहता है जो इस कारिका के असत् – अकरणात् से सिद्ध है क्योंकि सांख्यमतानुसार कार्य का कारण सत् होता है । तात्पर्य है कि कार्य, कारण में अप्रकट रूप से रहता है जो कारण को सत् रूप में सिद्ध करता है। जैसे – घड़ा बनने से पहले घड़ा, मिट्टी में ही सत् रूप से रहता है न रहता तो घड़े के अतिरिक्त कुछ और बनता ।

11. सांख्यकारिका कस्मिन् छन्दसि रचिता ? [MPPSC AP SANSKRIT PRACHYA 2022]

क). अनुष्टुप्छन्दसि

ख). हरिणीच्छन्दसि

ग). आर्याच्छन्दसि

घ). जगतीच्छन्दसि

✅ सही उत्तर:- ग). आर्याच्छन्दसि

लक्षण-

यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि।
अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या॥

12. सांख्यकारिकायां व्यक्तप्रकृतेः वैशिष्ट्यानि सन्ति – [RPSC ASSISTANT PROFESSOR 2025 P-1]

क). हेतुमत्, नित्यं, व्यापी, सक्रियम्

ख). हेतुमत्, अनित्यम्, अव्यापि, सक्रियम्

ग). अहेतुमत्, अनित्यम्, अव्यापि, सक्रियम्

घ). अहेतुमत्, नित्यम्, अव्यापि, निष्क्रियम्

✅ सही उत्तर:- ख). हेतुमत्, अनित्यम्, अव्यापि, सक्रियम्

हेतुमद‌् अनित्यम् अव्यापि सक्रियम् अनेकम् आश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ १०॥

13. सत्कार्यवादे हेतुर्नास्ति – [RPSC ASSISTANT PROFESSOR 2025 P-1]

क). असदकरणाद्

ख). कारणभावात्

ग). शक्तस्य शक्यकरणाद्

घ). सर्वसम्भवभावात्

✅ सही उत्तर:- घ). सर्वसम्भवभावात्

असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ ९॥

14. सांख्यकारिकानुसारेण सुमेलनमस्ति – [RPSC ASSISTANT PROFESSOR 2025 P-1]
A. महान् अहंकारः पञ्चतन्मात्राश्च
I. अविकृतिः
B. पुरुषः
II. न प्रकृतिः न विकृतिः
C. ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं पञ्चभूतानि मनश्च
 III. प्रकृतिविकृतयः
D. मूलप्रकृतिः
 IV. विकृतयः

अधस्तनेषु समीचीनं विकल्पं चिनुत-

क). A-I, B-II, C-III, D-IV

ख). A-II, B-III, C-I, D-IV

ग). A-IV, B-III, C-II, D-I

घ). A-III, B-II, C-IV, D-I

✅ सही उत्तर:- घ). A-III, B-II, C-IV, D-I

मूलप्रकृतिरविकृतिर्महदाद्याः  प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ ३॥

15. सांख्यमते सात्त्विक एकादशकः प्रवर्तते – [RPSC ASSISTANT PROFESSOR 2025 P-1]

क). वैकृतादहंकाराद्

ख). भूतादेरहंकाराद्

ग). तैजसादहंकाराद्

घ). विपर्ययाद्

✅ सही उत्तर:- क). वैकृतादहंकाराद्

सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।
भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥ २५॥

16. साङ्ख्यकारिकामते प्रधानविनिवृत्तौ किम्प्रकारक कैवल्यं प्राप्यते ? [RPSC ASSISTANT PROFESSOR 2025 P-1]

क). ऐकान्तिकमात्यन्तिकं च

ख). श्रेयः प्रेयात्मकम्

ग). सुखदुःखात्मकम्

घ). अर्थकामात्मकम्

✅ सही उत्तर:- क). ऐकान्तिकमात्यन्तिकं च

प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ ६८॥

17. सांख्यमते पञ्चभूतानि कस्मात् जायन्ते ? [RPSC ASSISTANT PROFESSOR 2025 P-1]

क). पञ्चतन्मात्रेभ्यः

ख). पञ्चकर्मेन्द्रियेभ्यः

ग). पञ्चज्ञानेन्द्रियेभ्यः

घ). मनसः

✅ सही उत्तर:- क). पञ्चतन्मात्रेभ्यः

सात्त्विकैकादशकः प्रवर्तते वैकृतादहङ्कारात् ।
भूतादेस्तन्१ मात्रः स तामसस्तैजसादुभयम् ॥ २५॥

18. सांख्यकारिकायां ‘व्यक्ताव्यक्तज्ञविज्ञानात्’ इति कारिकांशे ‘ज्ञः’ कोऽस्ति ? [RPSC ASSISTANT PROFESSOR 2025 P-1]

क). प्रकृतिः

ख). मनः

ग). अहंकारः

घ). पुरुषः

✅ सही उत्तर:- घ). पुरुषः

19. सांख्यकारिकानुसारेण अन्धतामिस्रः कतिविधः ? [RPSC ASSISTANT PROFESSOR 2025 P-1]

क). अष्टविधः

ख). नवविधः

ग). द्वादशविधः

घ). अष्टादशविधः

✅ सही उत्तर:- घ). अष्टादशविधः

भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः ।
तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः॥ ४८॥

20. पुरुषसत्तासाधकेषु निम्नलिखितेषु को हेतुः न। [HP SET 2018]

क). संघातपरार्थत्वात्

ख). भोक्तृभावात्

ग). त्रिगुणात्मकत्वात्

घ). कैवल्यार्थं प्रवृत्तेश्च

✅ सही उत्तर:- ग). त्रिगुणात्मकत्वात्

सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययाद् अधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थ प्रवृत्तेश्च ॥ १७॥

पुरुषसत्तासाधकेषु हेतुः संघातपरार्थत्वं भोक्तृभावः कैवल्यार्थं प्रवृत्तिः अस्ति ,अधिष्ठानम् अपि अस्ति परंतु त्रिगुणात्मकत्वं नास्ति तस्य विपर्ययः विपरीतभाव एव पुरुषसत्तासाधकेषु हेतुः अस्ति।

21. सांख्यदर्शने स्वीकृतानां प्रमाणानां संख्या अस्ति : [HP SET 2018]

क). 5

ख). 3

ग). 6

घ). 4

✅ सही उत्तर:- ख). 3

दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ ४॥

प्रत्यक्ष, अनुमान व शब्द 3 प्रमाण ही सांख्य में माने गए।

22. जनन-मरण करणानां प्रतिनियमात् कस्य सिद्धिः भवति ?

क). पुरुषबहुत्वस्य

ख). प्रधानस्य

ग). ईश्वरस्य

घ). पुरुषस्य

✅ सही उत्तर:- क). पुरुषबहुत्वस्य

जननमरणकरणानां प्रतिनियमाद् अयुगपत् प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥ १८॥

23. दृष्टम् इति पदेन साङ्ख्यनये किं प्रमाणम् उच्यते ?

क). प्रत्यक्षम्

ख). अनुमानम्

ग). उपमानम्

घ). आप्तवचनम्

✅ सही उत्तर:- क). प्रत्यक्षम्

दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ ४॥

तत्वप्रभाटीका – तत्र दृष्टमिति  श्रोत्रं त्वक् चक्षुजिह्वा घ्राणमिति पञ्चज्ञानेन्द्रियाणि, शब्दस्पर्शरूपरसगन्धा एषां ज्ञानेन्द्रियाणां यथायथं पञ्चैव विषयाः । श्रोत्रं शब्दं गृह्णाति, त्वक् स्पर्शम्, चक्षू रूपम्, जिह्वा रसम्, तथा घ्राणं गन्धमिति । ज्ञानेन्द्रियाणां स्वस्वविषयेषु व्यापारः दृष्टमित्युच्यते ।

24. लिंगलिगिपूर्वकं ज्ञानम् भवति : [HP SET 2018]

क). प्रत्यक्षम्

ख). आप्तम्

ग). अनुमानम्

घ). उपमानम्

✅ सही उत्तर:- ग). अनुमानम्

प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम्।
तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु ॥ ५॥

अनुमान का लक्षण तर्कभाषा में लिङ्गपरामर्शो अनुमानम् किया है। अर्थात् लिङ्ग का परामर्श ही अनुमान है।
लिंग – व्याप्तिबलेनार्थगमकं लिंगम्
परामर्श – तस्य तृतीयं ज्ञानम्
रसोई पर देखे गए अग्नि का ज्ञान ही प्रथम ज्ञान है। जब पर्वत पर धूम दिखा तब उस धूम को देखकर (जहां अग्नि होती है वहां धूम भी होता है ऐसा) व्याप्ति ज्ञान होने से ही पर्वत पर अग्नि का अनुमान होता है।

यहां लिंग = व्याप्य व साध्य का वाचक है तथा लिंगि = व्यापक व साधक का।
लिंग का उदाहरण धूमादि है तथा लिंगि का उदाहरण अग्नि आदि है।
लिंग धूमादि के द्वारा लिंगि अग्नि आदि का ज्ञान ही अनुमान कहलाता है।

25. सांख्यदर्शने करणानां संख्याऽस्ति : [HP SET 2018]

क). 10

ख). 12

ग). 13

घ). 15

✅ सही उत्तर:- ग). 13

करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ।
कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च ॥ ३२॥

10 ज्ञान-कर्मेन्द्रिय, मन-बुद्धि-अहंकार

26. विपर्ययभेदेषु नास्ति [RPSC AP SAMANYA DARSHAN 1 2024]

क). तमः

ख). मोहः

ग). महामोहः

घ). महातमः

✅ सही उत्तर:- घ). महातमः

पञ्च विपर्ययभेदा ………………………………….॥ ४७॥
भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः।
तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः ॥ ४८॥

27. प्रेक्षकवदवस्थितः पुरुषः कथम्भूतां प्रकृतिं पश्यति ? [RPSC AP SAMANYA DARSHAN 1 2024]

क). सप्तरूपविनिवृत्ताम्

ख). पञ्चरूपविनिवृत्ताम्

ग). अष्टरूपविनिवृत्ताम्

घ). नवरूपविनिवृत्ताम्

✅ सही उत्तर:- क). सप्तरूपविनिवृत्ताम्

तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम्।
प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः ॥ ६५॥

28. साङ्ख्यशास्त्रानुसारं समीचीनं विकल्प चिनुत [RPSC AP SAMANYA DARSHAN 1 2024]

क). पञ्च तन्मात्राणि अविशेषाः पञ्च महाभूतानि विशेषाः च सन्ति ।

ख). पञ्च महाभूतानि अविशेषाः पञ्च तन्मात्राणि विशेषाः च सन्तिं ।

ग). पञ्च ज्ञानेन्द्रियाणि विशेषाः पञ्च महाभूतानिं अविशेषाः च सन्ति ।

घ). पञ्च तन्मात्राणि विशेषाः पञ्च ज्ञानेन्द्रियाणि अविशेषाः च सन्ति ।

✅ सही उत्तर:- क). पञ्च तन्मात्राणि अविशेषाः पञ्च महाभूतानि विशेषाः च सन्ति ।

बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि।
वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि ॥ ३४॥

विशेषाविशेषविषयाणि – विशेष कहते हैं स्थूल (अर्थात् हम लोगों के द्वारा गृहीत शब्द, रूप आदि )को । अविशेष कहते हैं तन्मात्राओं को। तन्मात्राएँ स्थूल शब्द आदि के सूक्ष्म रूप हैं।

तन्मात्राणि अविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः।
एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च॥ ३८॥

29. अधोलिखितेषु सत्कार्यवादसाधकः हेतुः नास्ति [RPSC AP SAMANYA DARSHAN 1 2024]

क). उपादान-ग्रहणात्

ख). कारण-भावात्

ग). शक्तस्य शक्य-करणात्

घ). संघातपरार्थत्वात्

✅ सही उत्तर:- घ). संघातपरार्थत्वात्

असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ ९॥

30. ‘देवदत्तस्य अनुजः यज्ञदत्तः वने व्याघ्रेण भक्षितः” अत्र देवदत्तस्य दुःखमस्ति – [RPSC AP SAMANYA DARSHAN 1 2024]

क). आध्यात्मिकम्

ख). आधिदैविकम्

ग). आधिभौतिकम्

घ). आपराधिकम् (देवस्य)

✅ सही उत्तर:- ग). आधिभौतिकम्

दुःखत्रयाभिघाताज् जिज्ञासा तदप१घातके हेतौ ।
दृष्टे सापार्था चेन् नैकान्तात्यन्ततोऽभावात् ॥ १॥

तत्वप्रभाटीका – लोके सन्ति बहूनि दुःखानि । तानि त्रिषु भागेषु विभक्तव्यानि । इत्थं दुःखानां त्रयः समवायाः जायन्ते आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकञ्चेति ।आधिभौतिकं मानुषपशुमृगपक्षिसरीसृपस्थावरनिमित्तम् ।

आशा है कि आपको सांख्यकारिका बहुविकल्पीय प्रश्न Sankhyakarika MCQs उपयोगी और जानकारीपूर्ण लगा होगा। ऐसी ही उपयोगी जानकारी और मार्गदर्शन के लिए जुड़े रहें gopath.in & boks.in के साथ आपका सहयोग और विश्वास ही हमारी प्रेरणा है।

इसे भी पढ़ें  –

इसे भी पढ़ें :- UGC NET DEC 2025 PYQs Part – 1
इसे भी पढ़ें :- UGC NET JUN 2025 PYQs Part – 1

Sharing Is Caring:

Leave a Comment