UGC NET JUN 2025 PYQs Part – 4

प्रिय विद्यार्थियों, इस पोस्ट में UGC NET JUN 2025 PYQs Part – 4 का उत्तर सह प्रश्न है। जो मुख्यतः संस्कृत की विविध प्रतियोगी परिक्षाओं NET JRF, TGT PGT तथा विश्वविद्यालय स्तरीय परीक्षाओं के लिए अत्यंत उपयोगी है।

Q76. “यशोमती”-कस्य पत्नी आसीत् ?

क). प्रभाकरवर्धनस्य

ख). राज्यवर्धनस्य

ग). हर्षवर्धनस्य

घ). यशोवर्धनस्य

✅ सही उत्तर:- क). प्रभाकरवर्धनस्य

Q77. ऋग्वेदस्य व्याख्यापद्धतिषु पौर्वापर्यं निधारणीयम् –
A. वेङ्कटमाधवस्य व्याख्यापद्धतिः
B. उद्गीथस्य व्याख्यापद्धतिः
C. भट्टगोविन्दस्य व्याख्यापद्धतिः
D. सायणाचार्यस्य व्याख्यापद्धतिः
अधस्तनेषु समुचितं विकल्पं चिनुत-

क). B, A, C, D

ख). A, B, C, D

ग). C, D, A, B

घ). D, B, A, C

✅ सही उत्तर:- क). B, A, C, D

Q78. अधोलिखितानि ब्रह्मसूत्राणि क्रमानुसारं समुपस्थापयत-
A. जन्माद्यस्य यतः
B. अथातो ब्रह्मजिज्ञासा
C. तत्तु समन्वयात्
D. शास्त्रयोनित्त्वात्
अधस्तनेषु समुचितं विकल्पं चिनुत-

क). A, B, C, D

ख). D, C, B, A

ग). C, A, D, B

घ). B, A, D, C

✅ सही उत्तर:- घ). B, A, D, C

Q79. प्रथमसूच्या सह द्वितीयसूचीं सुमेलयत-
List I
List II
A. मानवाः
I. आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च
B. ओशनसाः
II. त्रयी वार्ता दण्डनीतिश्च
C. बाहस्पत्याः
III. दण्डनीतिः
D. कौटिल्यः
IV. वार्ता दण्डनीतिश्च

अधस्तनेषु समीचीनं विकल्पं चिनुत-

क). A-II,B-III,C-IV,D-I

ख). A-I,B-II,C-III,D-IV

ग). A-III,B-II,C-I,D-IV

घ). A-IV,B-I,C-II,D-III

✅ सही उत्तर:- क). A-II,B-III,C-IV,D-I

Q80. अधस्तनेषु ङीप्-प्रत्ययस्य उदाहरणमस्ति –

क). गौरी

ख). मृढी

ग). गार्गी

घ). गोपी

✅ सही उत्तर:- ग). गार्गी

Q81. प्रथमसूच्या सह द्वितीयसूचीं सुमेलयत-
List I
List II
A. मण्डनमिश्रः
I. न्यायसारः
B. भासर्वज्ञः
II. तार्किकपरीक्षा
C. वरदराजः
III. विधिविवेकः
D. गङ्गेशोपाध्यायः
IV. तत्त्वचिन्तामणिः

अधस्तनेषु समीचीनं विकल्पं चिनुत-

क). A-IV,B-III,C-II,D-I

ख). A-I,B-II,C-III,D-IV

ग). A-III,B-I,C-II,D-IV

घ). A-II,B-IV,C-I,D-III

✅ सही उत्तर:- ग). A-III,B-I,C-II,D-IV

Q82. मनुस्मृत्यनुसारं पितॄन् पितामहान् प्रपितामहांश्च केन नाम्ना वदन्ति ?
A. वसून् वदन्ति तु पितॄन् रुद्रांश्चैव पितामहान्
B. पितॄन् वदन्ति वसून् रुद्रांश्चैव प्रपितामहान्
C. प्रपितामहास्तथाऽऽदित्यान् श्रुतिरेषा सनातनी
D. नादित्यांश्च पितॄन् श्रुतिरेषा सनातनी
अधस्तनेषु समुचितं विकल्पं चिनुत-

क). A, B केवलम्

ख). A, C केवलम्

ग). B, C केवलम्

घ). B, D केवलम्

✅ सही उत्तर:- ख). A, C केवलम्

इसे भी पढ़ें :- भाषाविज्ञान के बहुविकल्पीय प्रश्न Bhashavijyan MCQs

Q83. चार्वाकदर्शनस्य प्रतिनिधिग्रन्थः कः ?

क). प्रमेयमार्तण्डः

ख). तत्त्वोपप्लवसिंहः

ग). सर्वदर्शनसङ्ग्रहः

घ). षड्दर्शनसमुच्चयः

✅ सही उत्तर:- ख). तत्त्वोपप्लवसिंहः

Q84. प्रथमसूच्या सह द्वितीयसूचीं सुमेलयत-
List I
List II
A. सौत्रान्तिकाः
I. बाह्यार्थशून्यत्वं स्वीकुर्वन्ति
B. वैभाषिकाः
II. सर्वशून्यत्वं स्वीकुर्वन्ति
C. योगाचाराः
III. बाह्यार्थानुमेयं स्वीकुर्वन्ति
D. माध्यमिकाः
IV. बाह्यार्थप्रत्यक्षं स्वीकुर्वन्ति

अधस्तनेषु समीचीनं विकल्पं चिनुत-

क). A-III,B-IV,C-I,D-II

ख). A-IV,B-II,C-I,D-III

ग). A-I,B-II,C-III,D-IV

घ). A-IV,B-III,C-II,D-I

✅ सही उत्तर:- क). A-III,B-IV,C-I,D-II

Q85. अधोलिखितानाम् आचार्याणां यथोचितं कालक्रमं चिनुत-
A. वात्स्यायनः
B. जयन्तभट्टः
C. उदयनाचार्यः
D. उद्योतकरः
अधस्तनेषु समुचितं विकल्पं चिनुत-

क). A, B, D, C

ख). D, C, B, A

ग). A, D, C, B

घ). B, C, A, D

✅ सही उत्तर:- ग). A, D, C, B

Q86. सर्वदर्शनसङ्ग्रहे वर्णितान् बौद्धसम्प्रदायस्य भेदान् क्रमानुसारं समुपस्थापयत-
A. सौत्रान्तिकः
B. वैभाषिकः
C. योगाचारः
D. माध्यमिकः
अधस्तनेषु समुचितं विकल्पं चिनुत-

क). D, C, A, B

ख). A, B, C, D

ग). C, D, B, A

घ). B, C, A, D

✅ सही उत्तर:- क). D, C, A, B

Q87. “अथातो ब्रह्मजिज्ञासा” इति सूत्रे शाङ्करभाष्यदृष्ट्या “अथ” शब्दस्य कोऽर्थः ?

क). आरम्भार्थकः

ख). सूचनार्थकः

ग). आनन्तर्यार्थकः

घ). नान्द्यर्थकः

✅ सही उत्तर:- ग). आनन्तर्यार्थकः

Q88. अधोलिखितग्रन्थाः कालक्रमानुसारं स्थापनीयाः –
A. प्रौढमनोरमा
B. लघुमञ्जूषा
C. वाक्यपदीयम्
D. सिद्धहेमशब्दानुशासनम्
अधस्तनेषु समुचितं विकल्पं चिनुत-

क). A, B, C, D

ख). C, D, B, A

ग). C, D, A, B

घ). D, B, C, A

✅ सही उत्तर:- ग). C, D, A, B

Q89. अधोलिखिताः आचार्याः कालक्रमानुसारं स्थापनीयाः-
A. हर्षः
B. बिल्हणः
C. श्रीहर्षः
D. भट्टनारायणः
अधस्तनेषु समुचितं विकल्पं चिनुत-

क). A, B, C, D

ख). B, C, D, A

ग). A, C, B, D

घ). A, D, B, C

✅ सही उत्तर:- घ). A, D, B, C

Q90. ऋक्प्रातिशाख्याऽभिमते समानाक्षराणां सङ्ख्या अस्ति-

क). अष्टौ

ख). नव

ग). दश

घ). पञ्च

✅ सही उत्तर:- क). अष्टौ

इसे भी पढ़ें :- UGC NET DEC 2025 PYQs Part – 1

COMPREHENSION:

अधोलिखितं परिच्छेदं पठित्वा तदाधारिताः प्रश्नाः समाधेयाः-

“अस्याङ्गिनो निर्विकल्पकस्य लयविक्षेपकषायरसास्वादलक्षणाश्चत्त्वारो विघ्नाः सम्भवन्ति । लयस्तावदखण्डवस्त्वनवलम्बेन चित्तवृत्तेर्निद्रा । अखण्डवस्त्वनवलम्बेन चित्तवृत्तेरन्यावलम्बनं विक्षेपः । लयविक्षेपाभावेऽपि चित्तवृत्ते रागादिवासनया स्तब्धीभावादखण्डवस्त्वनवलम्बनं कषायः । अखण्डस्त्वनवलम्बनेनापि चित्तवृत्तेः सविकल्पकानन्दास्वादनं रसास्वादः । समाध्यारम्भसमये सविकल्पकानन्दास्वादनं वा । अनेन विघ्नचतुष्टयेन विरहितं चित्तं निर्वातदीपवदचलं सदखण्डचैतन्यमात्रमवतिष्ठते यदा तदा निर्विकल्पकः समाधिरित्युच्यते ।”

Q91. उपिरिलिखितपरिच्छेदानुसारम् अखण्डवस्त्वनवलम्बेनापि चित्तवृत्तेः सविकल्पकानन्दास्वादनं भवति –

क). निद्रास्वादः

ख). निरास्वादः

ग). रसास्वादः

घ). भोजनास्वादः

✅ सही उत्तर:- ग). रसास्वादः

Q92. उपिरिलिखितपरिच्छेदानुसारं लयविक्षेपाऽभावे सति रागादिवासनात् चित्तवृत्तेरखण्डवस्त्वलम्बने कः विघ्नः भवति –

क). लयः

ख). कषायः

ग). विक्षेपः

घ). रसास्वादः

✅ सही उत्तर:- ख). कषायः

Q93. उपिरिलिखितपरिच्छेदानुसारम् अखण्डवस्त्वनवलम्बनेन चित्तवृत्तीनां निद्रायां सत्यां कः विघ्नः भवति ?

क). लयः

ख). विक्षेपः

ग). कषायः

घ). रसास्वादः

✅ सही उत्तर:- क). लयः

Q94. उपिरिलिखितपरिच्छेदानुसारं निर्विकल्पकसमाधौ वर्णितेषु चतुर्षु विघ्नेषु चतुर्थः विघ्नः भवति –

क). कषायः

ख). लयः

ग). कषायरसः

घ). रसास्वादः

✅ सही उत्तर:- घ). रसास्वादः

Q95. उपिरिलिखितपरिच्छेदानुसारं विघ्नचतुष्टयेन विरहिते चित्ते सति कः समाधिः भवति ?

क). सवितल्पकसमाधिः

ख). सम्प्रज्ञातसमाधिः

ग). निर्विकल्पकसमाधिः

घ). विक्षेपसमाधिः

✅ सही उत्तर:- ग). निर्विकल्पकसमाधिः

COMPREHENSION:

अधोलिखितं परिच्छेदं पठित्वा तदाधारिताः प्रश्नाः समाधेयाः-

“विदर्भो नाम जनपदः तस्मिन्भोजवंशभूषणम्, अंशावतार इव धर्मस्य, अतिसत्त्वः, पुण्यश्लोकः पुण्यवर्मा नामासीत् । स पुण्यैः कर्मभिः प्राप्य पुरुषायुषम्, पुनरपुण्येन प्रजानामगण्यतामरेषु । तदनन्तरमनन्तवर्मा नाम तदायतिरवनिमध्यतिष्ठत् । स सर्वगुणैः समृद्धोऽपि दैवाद्दण्डनीत्यां नात्यादृतोऽभूत् । तमेकदा रहसि वसुरक्षितो नाम मन्त्रिवृद्धः पितुरस्य बहुमतः प्रगल्भवागभाषत् । तात ! सर्वेवात्मसम्पदभिजनात्प्रभृत्यन्यूनैवात्रभवति लक्ष्यते । बुद्धिश्च निसर्गपट्टी, कलासु, नृत्यगीतादिषु चित्रेषु च काव्यविस्तरेषु प्राप्तविस्तरा तवेतरेभ्यः प्रतिविशिष्यते । तथाप्यसावप्रतिपद्यात्मसंस्कारमर्थशास्त्रेषु, अनग्निसंशोधितेव हेमजातिर्नातिभाति बुद्धिः । बुद्धिहीनो हि भूभृदत्युच्छ्रितोऽपि परैरध्यारुह्यमाणमात्मानं न चेतयते । न च शक्तः साध्यं साधनं वा विभज्य वर्तितुम् । दिव्यं हि चक्षुर्भूतभवद्भविष्यत्सु व्यवहितविप्रकृष्टादिषु च विषयेषु शास्त्रं नामाप्रतिहतवृत्ति । अतो विहाय बाह्यविद्यास्वभिषङ्गमागमय दण्डनीतिं कुलविद्यां तदर्थानुष्ठानेन चावर्जितशक्तिसिद्धिरस्खलितशासनः शाधि चिरमुदधिमेखलामुर्वीम्” इति ।

Q96. उपिरिलिखितपरिच्छेदे समुल्लिखितस्य “पुण्यश्लोकः” इति पदस्य अर्थो वर्तते –

क). परमपटुः

ख). पवित्रकीर्तिः

ग). सत्यवादी

घ). विनीतः

✅ सही उत्तर:- ख). पवित्रकीर्तिः

Q97. उपिरिलिखितपरिच्छेदे वर्णितः मन्त्री वसुरक्षितः केन सम्मानितः आसीत् ?

क). अनन्तवर्मणा

ख). महामात्येन

ग). पुण्यवर्मणा

घ). मन्त्रिपरिषदा

✅ सही उत्तर:- ग). पुण्यवर्मणा

Q98. उपिरिलिखितपरिच्छेदानुसारं दिव्यं चक्षुः किमस्ति ?

क). कोषः

ख). शास्त्रम्

ग). प्रजानां योगक्षेमः

घ). सैन्यबलम्

✅ सही उत्तर:- ख). शास्त्रम्

Q99. उपिरिलिखितपरिच्छेदानुसारं वसुरक्षितः कां विद्यामपहातुमुपदिशति ?

क). कुलविद्याम्

ख). नृत्यविद्याम्

ग). दण्डनीतिविद्याम्

घ). बाह्यविद्याम्

✅ सही उत्तर:- घ). बाह्यविद्याम्

Q100. उपिरिलिखितपरिच्छेदानुसारं पुण्यवर्मा कीदृशमायुः प्राप्तवान् ?

क). पूर्णमायुः

ख). अल्पायुः

ग). मध्यमायुः

घ). मध्यमोत्तमायुः

✅ सही उत्तर:- क). पूर्णमायुः

आशा है कि आपको UGC NET JUN 2025 Part – 4 उपयोगी और जानकारीपूर्ण लगा होगा। ऐसी ही उपयोगी जानकारी और मार्गदर्शन के लिए जुड़े रहें gopath.in & boks.in के साथ आपका सहयोग और विश्वास ही हमारी प्रेरणा है।

इसे भी पढ़ें

Sharing Is Caring:

Leave a Comment