प्रिय विद्यार्थियों, इस पोस्ट में UGC NET DEC 2025 PYQs Part – 4 का उत्तर सह प्रश्न है। जो मुख्यतः संस्कृत की विविध प्रतियोगी परिक्षाओं NET JRF, TGT PGT तथा विश्वविद्यालय स्तरीय परीक्षाओं के लिए अत्यंत उपयोगी है।
Q76. “विश्ववाह्” शब्दस्य द्वितीयाबहुवचने किं रूपम् ?
Q77. अधोलिखितेषु यजुर्वेदीयशिक्षाग्रन्थाः भवन्ति –
A. अमरेशी शिक्षा
B. याज्ञवल्क्यशिक्षा
C. लोमशी शिक्षा
D. माण्डूकी शिक्षा
E. माण्डव्यशिक्षा
अधोलिखितेषु समीचीनमुत्तरं चिनुत।
Q78. महाभाष्यानुसारेण कः लक्ष्यः?
Q79. परस्परं सूचीद्वयं मेलयत।
सूची-। |
सूची-॥ |
A वैदर्भी |
। वैदर्भीपाञ्चालीप्रयुक्ता वर्णाः |
B गौडी |
॥ माधुर्यौजोव्यञ्जका वर्णाः |
C पाञ्चाली |
III ओजोव्यञ्जका वर्णाः |
D लाटी |
IV माधुर्यव्यञ्जका वर्णाः |
सूचीद्वयमाश्रित्य समीचीनमुत्तरं चिनुत।
Q80. ऐतरेयब्राह्मणानुसारेण सोमापहरणार्थम् एषा दिक् श्रेष्ठा भवति –
Q81. क्रमशः ऋग्वेदीयद्वितीय-तृतीय-चतुर्थ-पञ्चम-षष्ठमण्डलानाम् ऋषयो भवन्ति –
A. भरद्वाजः
B. अत्रिः
C. वामदेवः
D. गृत्समदः
E. विश्वामित्रः
अधोलिखितेषु समीचीनमुत्तरं चिनुत।
Q82. मृच्छकटिके शर्विलकस्य प्रेयसी का ?
Q83. “प्रियस प्रियदसिनो राञो महानसम्हि” इति अशोकस्य प्रथमगिरिनारशिलालेखस्थवाक्ये “महानसम्हि” शब्दस्य संस्कृतरूपान्तरं किम् ?
Q84. क्षेत्रस्य सीम्नः विवादे सीमानिर्धारकत्वेन एते आदितः क्रमशः प्रोक्ताः –
A. सीमासन्निहित क्षेत्रकर्षकाः
B. वृद्धाः
C. सामन्ताः
D. वनगोचराः व्याधादयः
E. गोचारकाः
अधोलिखितेषु समीचीनमुत्तरं चिनुत।
Q85. विज्ञानवादिमते एकसन्तानवर्तिनामालयविज्ञानानां तत्तत्प्रवृत्तिविज्ञानजननशक्तिर्भवति –
Q86. “अनलङ्कृती पुनः क्वापि” इत्यत्र ‘पुनः’ पदस्य कोऽर्थः ?
Q87. अधमपाठकस्य लक्षणानि पाणिनीयशिक्षानुसारेण आरोहक्रमेण व्यवस्थापयत।
A. शिरःकम्पी
B. अनर्थज्ञः
C. लिखितपाठकः
D. अल्पकण्ठः
E. शीघ्री
अधोलिखितेषु समीचीनमुत्तरं चिनुत।
Q88. दिलीपः कीदृशः धर्म जुगोप ?
इसे भी पढ़ें :- UGC NET DEC 2025 PYQs Part – 1
Q89. अधो वाक्यद्वयं वर्तते। एकमभिकथनम् (A), द्वितीयं तस्य कारणम् (R)I
अभिकथनम् (A) – चौरहृतं द्रव्यं राज्ञा जानपदाय देयम्।
कारणम् (R) – एवं हि दत्त्वा स शतायुर्भवति।
उपर्युक्तवाक्यद्वयमाश्रित्य समुचितमुत्तरं चिनुत।
Q90. पाणिनीयशिक्षानुसारेण ईषन्नादवर्णाः के ?
A. य
B. फ
C. ग
D. र
E. ज
अधोलिखितेषु समीचीनमुत्तरं चिनुत।
Comprehension:
अधोलिखितमनुच्छेदं पठित्वा प्रश्नानां समुचितम् उत्तरं चिनुत।
अस्ति पूर्वापरजलनिधिवेलावनलग्ना मध्यदेशालङ्कारभूता मेखलेव भुवः, जानकीव प्रसूतकुशलवा निशाचरपरिगृहीता च, कामिनीव चन्दनमृगमदपरिमलवाहिनी रुचिरागुरुतिलकभूषिता च, सोत्कण्ठेव विविधपल्लवानिलवीजिता समदना च, बालग्रीवेव व्याघ्रनखपंक्तिमण्डिता गण्डकाभरणा च, पानभूमिरिव प्रकटितमधुकोशकशता प्रकीर्णविविधकुसुमा च, क्वचित्प्रलयवेलेव महावराहदंष्ट्रा समुत्खातधरणिमण्डला, क्वचिद्दशमुखनगरीव चटुलवानरवृन्दभज्यमानतुङ्ग-शालाकुला, क्विचिदचिरनिर्वृत्तविवाहभूमिरिव हरितकुशसमित्कुसुमशमीपलाशशोभिता, क्वचिदुद्वृत्तमृगपति-नादभीतेव कण्टकिता, क्वचिन्मत्तेव कोकिलकुलकलप्रलापिनी, क्वचिदुन्मत्तेव वायुवेगकृत्ततालशब्दा, क्वचिद्विधवेवोन्मुक्ततालपत्रा, क्वचित्समरभूमिरिव शरशतनिचिता, क्वचिदमरपतितनुरिख नेत्रसहस्रकुला, कचिन्नारायणमूर्त्तिरिव तमालनीला, क्वचित्पार्थरथपताकेव कप्याक्रान्ता, क्वचिदवनिपतिद्वारभूमिरिव वेत्रलता-शतदुःप्रवेशा, क्वचिद्विराटनगरीव कीचकशताकुला, क्वचिदम्बरश्रीरिव व्याधानुगम्यमानतरलतारकमृगा, क्वचिद्गृहीतव्रतेव दर्भचीरजटावल्कलधारिणी, अपरिमितबहलपत्रसञ्चयाऽपि सप्तपर्णोपशोभिता, क्रूरसत्त्वाऽपि मुनिजनसेविता, पुष्पवत्यपि पवित्रा विन्ध्याटवी नाम।
Q91. भुवो मेखलेव मध्यदेशालङ्कारभूता का ?
Q92. नेत्रसहस्रसङ्कुलता कुत्र प्रथिता ?
Q93. अनुच्छेदेऽस्मिन् कप्याक्रान्तेति पदं कयोः सङ्गतम् ?
Q94. प्रकृतवर्ण्यविषयप्रसंगे “प्रसूतकुशलवा” इत्यस्य क आशयः ?
Q95. “प्रकटितमधुकोशकशता पानभूमिः” इत्यत्र पानभूमिः इति पदस्य कोऽर्थः?
इसे भी पढ़ें :- वेद पाणिनीय शिक्षा Ved Panini Shiksha MCQs
Comprehension:
अधोलिखितानुच्छेदं पठित्वा प्रश्नानां समीचीनमुत्तरं चिनुत।
तार्किकाः पुनस्तादात्म्यस्थाने समवायमभिषिञ्चन्तोऽन्यथा सन्निकर्षमाहुः – संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्च इति षोढा सन्निकर्षः। तत्र चक्षुरादिभिः संयोगाद् द्रव्याणां ग्रहणम्। चक्षुरादिसंयुक्ते द्रव्ये संयुक्तसमवायाद् गुणादीनां ग्रहणम्। संयुक्ते द्रव्ये समवेतेषु गुणादिषु संयुक्तसमवेतसमवायाद् गुणत्वादीनां ग्रहणम्। शब्दस्य चाकाश-गुणत्वादाकाशात्मकेन श्रोत्रेण समवायाद् ग्रहणम्। शब्दत्वस्य तु श्रोत्रसमवेते शब्दे समवेत समवायाद् ग्रहणम्। अभावस्य तु भावधर्मभूतयोः संयोग-समवाययोरभावात् संयुक्तभूतलादिविशेषणविशेष्यरूपसन्निकर्षेण ग्रहणम्। तथैव समवायस्याप्यद्रव्यत्वेन संयोगाभावात् समवायान्तराश्रयणे अनवस्थाप्रसङ्गाद् विशेषणविशेष्यभाव एव सन्निकर्ष इति। शब्दस्य हि श्रोत्रगुणत्वाभावात् समवायाख्यः समवेतसमवायाख्यश्च सन्निकर्षो निरवकाश इति मीमांसकाः। प्राभाकरास्तु संयोगः संयुक्तसमवायः, समवाय इति त्रेधा सन्निकर्षमाहुः। तन्मते रूपत्वादीनामभावात् संयुक्तसमवेत-समवायो नाश्रयणीयः। शब्दत्वस्याभावात् समवेतसमवायोऽपि। अभावस्य चाभावात् समवायस्य च प्रत्यक्षत्वाभावाद् विशेषणविशेष्यभावोऽपि नाश्रयणीयः।
Q96. समवायस्य समवायान्तरसंसर्गस्वीकारे को दोषः ?
Q97. शब्द-आकाशयोः कः संसर्गः ?
Q98. शब्दस्य गुणत्वं नास्तीति कस्य मतम् ?
Q99. न्यायनये शब्दत्वप्रत्यक्षे कः सन्निकर्षः ?
Q100. संयुक्तसमवेतसमवायसन्निकर्षेण कस्य ग्रहणम् ?
आशा है कि आपको UGC NET DEC 2025 Part – 4 उपयोगी और जानकारीपूर्ण लगा होगा। ऐसी ही उपयोगी जानकारी और मार्गदर्शन के लिए जुड़े रहें gopath.in & boks.in के साथ आपका सहयोग और विश्वास ही हमारी प्रेरणा है।