UGC NET DEC 2025 PYQs Part – 1

प्रिय विद्यार्थियों, इस पोस्ट में UGC NET DEC 2025 PYQs Part – 1 का उत्तर सह प्रश्न है। जो मुख्यतः संस्कृत की विविध प्रतियोगी परिक्षाओं NET JRF, TGT PGT तथा विश्वविद्यालय स्तरीय परीक्षाओं के लिए अत्यंत उपयोगी है।

Q1. रामायणाश्रितपरवर्तिसाहित्येषु दिङ्नागकृता कुन्दमाला कस्यां विधायाम् अन्तर्भवति?

क). महाकाव्यम् इति विधायाम्

ख). नाटकम् इति विधायाम्

ग). चम्पूकाव्यम् इति विधायाम्

घ). गद्यकाव्यम् इति विधायाम्

✅ सही उत्तर:- ख). नाटकम् इति विधायाम्

Q2. जैनाभिमतपुद्गलेषु परिगण्यन्ते –
A. स्पर्शः
B. शब्दः
C. रसः
D. स्नेहः
E. गन्धः

क). A, C, E केवलम्

ख). A, D, E केवलम्

ग). C, D, E केवलम्

घ). B, D, E केवलम्

✅ सही उत्तर:- क). A, C, E केवलम्

Q3. परस्परं सूचीद्वयं मेलयत।
सूची-।
सूची-॥
A बृहदारण्यकोपनिषत्
। भृगुवरुणसंवादः
B कठोपनिषत्
॥ नेह नानास्ति किञ्चन
C तैत्तिरीयोपनिषत्
III गार्ग्याजातशत्रुसंवादः
D केनोपनिषत्
IV उमाहेमवत्याख्यानम्
सूचीद्वयमाश्रित्य समीचीनमुत्तरं चिनुत।

क). A II B III C IV D I

ख). A III B II C IV D I

ग). A I B IV C III D II

घ). A III B II C I D IV

✅ सही उत्तर:- घ). A III B II C I D IV

Q4. अधो वाक्यद्वयं वर्तते। एकमभिकथनम् (A), द्वितीयं तस्य कारणम् (R)।
अभिकथनम् (A) – न्यायवैशेषिकनये ईश्वरः अनुमेयद्रव्यमस्ति।
कारणम् (R) – क्षितिः सकर्तृका कार्यत्वादित्यत्र कार्यत्वहेतुना ईश्वरस्य साक्षात् सिद्धिर्भवति।
उपर्युक्तवाक्यद्वयमाश्रित्य समुचितमुत्तरं चिनुत।

क). A, R उभयमपि सत्यम्, तथा R, A इत्यस्य सम्यक् व्याख्यानं करोति।

ख). A, R उभयमपि सत्यम्, तथा R, A इत्यस्य सम्यक् व्याख्यानं न करोति।

ग). A सत्यमस्ति, परं R असत्यम्।

घ). A असत्यमस्ति, परं R सत्यम्।

✅ सही उत्तर:- ख). A, R उभयमपि सत्यम्, तथा R, A इत्यस्य सम्यक् व्याख्यानं न करोति।

Q5. परस्परं सूचीद्वयं मेलयत।
सूची-।
सूची-॥
A भीमार्जुनौ
। लिङ्गम्
B कर्णार्जुनौ
॥ प्रकरणम्
C सर्वं जानाति देवः
III विरोधिता
D कुपितो मकरध्वजः
 IV साहचर्यम्
सूचीद्वयमाश्रित्य समीचीनमुत्तरं चिनुत।

क). A IV B III C II D I

ख). A III B IV C II D I

ग). A II B III C IV D I

घ). A I B IV C III D II

✅ सही उत्तर:- क). A IV B III C II D I

Q6. सञ्चारिभावेषु एते पठ्यन्ते ?
A. निर्वेदः
B. श्रमः
C. वेपथुः
D. स्मृतिः
E. रोमाञ्चः
अधोलिखितेषु समीचीनमुत्तरं चिनुत।

क). B, C, D केवलम्

ख). A, B, D केवलम्

ग). C, D, E केवलम्

घ). B, D, E केवलम्

✅ सही उत्तर:- ख). A, B, D केवलम्

Q7. विकुर्वाणात् आकाशात् कीदृशो वायुर्जायते ?

क). उष्णः

ख). अनुष्णः

ग). सर्वगन्धवहः

घ). शीतोष्णः

✅ सही उत्तर:- ग). सर्वगन्धवहः

Q8. अधो वाक्यद्वयं वर्तते। एकमभिकथनम् (A), द्वितीयं तस्य कारणम् (R)।
अभिकथनम् (A) – “भवन्ती” इत्यत्र ङीप् प्रत्ययो भवति।
कारणम् (R) – “भवत्” शब्दः शतृप्रत्ययान्तः।
उपर्युक्तवाक्यद्वयमाश्रित्य समुचितमुत्तरं चिनुत।

क). A, R उभयमपि सत्यम्, तथा R, A इत्यस्य सम्यक् व्याख्यानं करोति।

ख). A, R उभयमपि सत्यम्, तथा R, A इत्यस्य सम्यक् व्याख्यानं न करोति।

ग). A सत्यमस्ति, परं R असत्यम्।

घ). A असत्यमस्ति, परं R सत्यम्।

✅ सही उत्तर:- क). A, R उभयमपि सत्यम्, तथा R, A इत्यस्य सम्यक् व्याख्यानं करोति।

Q9. अखण्डवस्त्ववलम्बनेन चित्तवृत्तेरन्यावलम्बनं भवति –

क). लयः

ख). विक्षेपः

ग). रसास्वादः

घ). कषायः

✅ सही उत्तर:- ख). विक्षेपः

इसे भी पढ़ें :- भाषाविज्ञान के बहुविकल्पीय प्रश्न Bhashavijyan MCQs

Q10. रोमबद्धे वसने क्रियमाणे कतमो भागः क्षयो वेदितव्यः ?

क). विंशतितमो भागः

ख). त्रिंशत्तमो भागः

ग). पञ्चत्रिंशत्तमो भागः

घ). चत्वारिंशत्तमो भागः

✅ सही उत्तर:- ख). त्रिंशत्तमो भागः

Q11. परस्परं सूचीद्वयं मेलयत।
सूची-।
सूची-॥
A विप्रतिपत्तिरप्रतिपत्तिश्च
I जातिः
B साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानम्
II निर्णयः
C वचनविघातोऽर्थविकल्पोपपत्त्या
III निग्रहस्थानम्
D विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणम्
IV छलम्
 
सूचीद्वयमाश्रित्य समीचीनमुत्तरं चिनुत।

क). A III B IV C I D II

ख). A II B I C IV D III

ग). A IV B III C I D II

घ). A III B I C IV D II

✅ सही उत्तर:- घ). A III B I C IV D II

Q12. “अधीती व्याकरणे” अत्र केन सप्तमी विधीयते ?

क). आधारोऽधिकरणम्

ख). यस्य च भावेन भावलक्षणम्

ग). क्तस्येन् विषयस्य कर्मण्युपसंख्यानम्

घ). निमित्तात् कर्मयोगे

✅ सही उत्तर:- ग). क्तस्येन् विषयस्य कर्मण्युपसंख्यानम्

Q13. अधो वाक्यद्वयं वर्तते। एकमभिकथनम् (A), द्वितीयं तस्य कारणम् (R)I
अभिकथनम् (A) – स द्विजातिः सर्वस्माद् द्विजकर्मणः बहिष्कार्यः।
कारणम् (R) – यः पूर्वां सन्ध्यां न तिष्ठति, न च पश्चिमामुपास्ते।
उपर्युक्तवाक्यद्वयमाश्रित्य समुचितमुत्तरं चिनुत।

क). A, R उभयमपि सत्यम्, तथा R, A इत्यस्य सम्यक् व्याख्यानं करोति।

ख). A, R उभयमपि सत्यम्, तथा R, A इत्यस्य सम्यक् व्याख्यानं न करोति।

ग). A सत्यमस्ति, परं R असत्यम्।

घ). A असत्यमस्ति, परं R सत्यम्।

✅ सही उत्तर:- ग). A सत्यमस्ति, परं R असत्यम्।

Q14. मनुस्मृतौ श्लोके कर्मेन्द्रियाणाम् अयं क्रमः सूचितः –
A. पादौ
B. पायुः
C. वाक्
D. उपस्थम्
E. हस्तौ
अधोलिखितेषु समीचीनमुत्तरं चिनुत।

क). C, E, A, B, D

ख). C, E, A, D, B

ग). B, E, D, C, A

घ). B, D, E, A, C

✅ सही उत्तर:- घ). B, D, E, A, C

Q15. भाषाविज्ञानानुसारेण एषु कः वर्णः संघर्षी वर्त्तत्ते ?

क). च्

ख). ण्

ग). ह्

घ). झ्

✅ सही उत्तर:- ग). ह्

Q16. परस्परं सूचीद्वयं मेलयत।
सूची-।
सूची-॥
A गौः
। अर्थोत्कर्षः
B प्रवीणः
॥ अर्थादेशः
C असुरः
III अर्थविस्तारः
D सभ्यः
IV अर्थसङ्कोचः
 
सूचीद्वयमाश्रित्य समीचीनमुत्तरं चिनुत।

क). A III B I C II D IV

ख). A II B I C IV D III

ग). A I B II C III D IV

घ). A IV B III C II D I

✅ सही उत्तर:- घ). A IV B III C II D I

इसे भी पढ़ें :- वेद पाणिनीय शिक्षा Ved Panini Shiksha MCQs

Q17. अधो वाक्यद्वयं वर्तते। एकमभिकथनम् (A), द्वितीयं तस्य कारणम् (R)।
अभिकथनम् (A) – शिवराजविजये द्वादशनिःश्वासाः सन्ति।
कारणम् (R) – शिवराजविजये “रसनारी” एकं पात्रम्।
उपर्युक्तवाक्यद्वयमाश्रित्य समुचितमुत्तरं चिनुत।

क). A, R उभयमपि सत्यम्, तथा R, A इत्यस्य सम्यक् व्याख्यानं करोति।

ख). A, R उभयमपि सत्यम्, तथा R, A इत्यस्य सम्यक् व्याख्यानं न करोति।

ग). A सत्यमस्ति, परं R असत्यम्।

घ). A असत्यमस्ति, परं R सत्यम्।

✅ सही उत्तर:- ख). A, R उभयमपि सत्यम्, तथा R, A इत्यस्य सम्यक् व्याख्यानं न करोति।

Q18. क्रमशः मन्त्रांशान् सज्जीकृत्य पूर्ण मौलिकं मन्त्रं सूचयत –
A. प्राप्या जगद्व्यु
B. भास्वती नेत्री सूनृतानामचेति
C. नो रायो अख्यदुषा
D. चित्रा वि दूरो न आवः
E. अजीगर्भुवनानि विश्वा
अधोलिखितेषु समीचीनमुत्तरं चिनुत।

क). B, D, A, C, E

ख). B, D, A, E, C

ग). D, B, C, A, E

घ). D, C, A, B, E

✅ सही उत्तर:- क). B, D, A, C, E

Q19. पितृयागे पितृसंज्ञकाः, सेवितुं योग्याश्च भवन्ति –
A. अग्निष्वात्ताः
B. प्राजापत्याः
C. सोमपाः
D. सुकालिनः
E. वारुणाः
अधोलिखितेषु समीचीनमुत्तरं चिनुत।

क). A, B, C केवलम्

ख). A, C, D केवलम्

ग). A, D, E केवलम्

घ). A, C, E केवलम्

✅ सही उत्तर:- ख). A, C, D केवलम्

Q20. अधो वाक्यद्वयं वर्तते। एकमभिकथनम् (A), द्वितीयं तस्य कारणम् (R)।
अभिकथनम् (A) – स्वरभक्तिः पूर्ववर्तिना लकारेण सम्बद्धा भवति।
कारणम् (R) – स्वरभक्तिः लकारादुत्तरा लकारसदृशी न भवति।
उपर्युक्तवाक्यद्वयमाश्रित्य समुचितमुत्तरं चिनुत।

क). A, R उभयमपि सत्यम्, तथा R, A इत्यस्य सम्यक् व्याख्यानं करोति।

ख). A, R उभयमपि सत्यम्, तथा R, A इत्यस्य सम्यक् व्याख्यानं न करोति।

ग). A सत्यमस्ति, परं R असत्यम्।

घ). A असत्यमस्ति, परं R सत्यम्।

✅ सही उत्तर:- ग). A सत्यमस्ति, परं R असत्यम्।

Q21. परस्परं सूचीद्वयं मेलयत।
सूची-।
सूची-॥
A प्रष्ठौहः
। ङः सि धुट्
B षट्सन्तः
॥ एत्येधत्यूठ्सु
C शान्तः
III न पदान्ताट्टोरनाम्
D षट्त्सन्तः
IV अनुस्वारस्य ययि परसवर्णः
 
सूचीद्वयमाश्रित्य समीचीनमुत्तरं चिनुत।

क). A II B IV C I D III

ख). A II B I C IV D III

ग). A II B III C IV D I

घ). A II B I C III D IV

✅ सही उत्तर:- ग). A II B III C IV D I

Q22. परस्परं सूचीद्वयं मेलयत।
सूची-।
सूची-॥
A सत्कार्यवादः
। सौगतः
B प्रतीत्यसमुत्पादवादः
॥ अद्वैतवेदान्तः
C विवर्तवादः
III सांख्यः
D असत्कार्यवादः
IV वैशेषिकः
 
सूचीद्वयमाश्रित्य समीचीनमुत्तरं चिनुत।

क). A III B I C IV D II

ख). A IV B II C I D III

ग). A III B I C II D IV

घ). A II B III C IV D I

✅ सही उत्तर:- ग). A III B I C II D IV

Q23. मत्वर्थीयप्रत्ययान्तपदानि इमानि भवन्ति –
A. तापसः
B. केशवः
C. योग्यः
D. जाड्यम्
E. वाग्ग्मी
अधोलिखितेषु समीचीनमुत्तरं चिनुत।

क). C, D, E केवलम्

ख). B, C, D केवलम्

ग). A, C, D केवलम्

घ). A, B, E केवलम्

✅ सही उत्तर:- घ). A, B, E केवलम्

Q24. परस्परं सूचीद्वयं मेलयत।
सूची-।
सूची-॥
A विश्वरूपः
I अपरार्कः
B विज्ञानेश्वरः
॥ मिताक्षरा
C अपरादित्यः
III बालक्रीडा
D शूलपाणिः
IV दीपकालिका
 
सूचीद्वयमाश्रित्य समीचीनमुत्तरं चिनुत।

क). A IV B II C I D III

ख). A I B II C III D IV

ग). A I B II C IV D III

घ). A III B II C I D IV

✅ सही उत्तर:- घ). A III B II C I D IV

Q25. रुद्रदाम्नः गिरनार-अभिलेखे पञ्चमपङ्क्तौ कस्य मासस्य का तिथिः उल्लिखिता ?

क). मार्गशीर्षबहुलप्रतिपदा

ख). मार्गशीर्षबहुलतृतीया

ग). मार्गशीर्षामावास्या

घ). मार्गशीर्षबहुलचतुर्दशी

✅ सही उत्तर:- क). मार्गशीर्षबहुलप्रतिपदा

आशा है कि आपको UGC NET DEC 2025 Part – 1 उपयोगी और जानकारीपूर्ण लगा होगा। ऐसी ही उपयोगी जानकारी और मार्गदर्शन के लिए जुड़े रहें gopath.in & boks.in के साथ आपका सहयोग और विश्वास ही हमारी प्रेरणा है।

इसे भी पढ़ें

Sharing Is Caring:

Leave a Comment