प्रिय विद्यार्थियों, इस पोस्ट में साहित्यदर्पण के बहुविकल्पीय प्रश्न Sahitya darpan MCQs है। जो मुख्यतः दिल्ली विश्वविद्यालय के परास्नातक संस्कृत के प्रथम सत्र 1st Sem से संबंधित है तथा संस्कृत की विविध प्रतियोगी परिक्षाओं NET JRF, TGT PGT तथा विश्वविद्यालय स्तरीय परीक्षाओं के लिए अत्यंत उपयोगी है।
Q1. रूपकं इति लक्षणं वर्तते ।
Q2. को वृत्तिः संस्कृतप्रायोऽस्ति- [MPPSC A.P. 2022]
भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः ॥ सा. द. ६.२९॥
Q3. “ पारिपार्श्विकः ” इति कोऽर्थ: ?
Q4. “ आमुखं “ इति अपरं नाम किं ?
आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा ॥ सा. द. ६.३२॥
Q5. अङ्कान्ते सूचितः पात्रैस्तदङ्कस्याविभागतः ।
यत्राङ्कोऽवतरत्येषो …………. इति स्मृतः ॥
रिक्तं स्थानं पूरयतु-
Q6. बीजं बिन्दुः ……… च प्रकरी कार्यमेव च । रिक्तं स्थानं पूरयतु –
Q7. “ आरम्भः ” इति अस्ति-
अवस्था पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ।। सा. द. 6.70
Q8. उपरूपकं संख्याऽस्ति-
अष्टादश प्राहुः उपरुपकाणि मनीषिणः ।
विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम् ॥ सा. द. 6.6
Q9. “ ईहामृगः ” इति अस्ति –
नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः ।
ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश ॥ सा. द. 6.3॥
Q10. आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते ।
देवद्विजनृपादीनां तस्मात् ……….. इति संज्ञिता ॥ ६.२४॥
रिक्तं स्थानं पूरयतु –
Q11. गद्यप्रकाराः वर्तन्ते –
अथ गद्यकाव्यानि
तत्र गद्यम्-
वृतगन्धोज्झितं गद्यं मुक्तकं वृतगन्धि च ।
भवेदुत्कलिकाप्रायं चूर्णकं च चतुर्विधम् ।।( सा. द. 6.330 )
( एते चतुर्गद्यप्रकाराः )
Q12. “ चम्पूः ” इति काव्यभेदः प्रकारोऽस्ति –
गद्यपद्यकाव्यं काव्यं चम्पूरित्यभिधीयते ॥ ( सा. द. 6.336)
Q13. “महाभारतम्” इति का सञ्ज्ञा अस्ति साहित्यदर्पणे –
अस्मिन्नार्षे पुनः सर्गा भवन्ति आख्यानसंज्ञकाः ॥ सा. द. ६, ३२५॥
अस्मिन्महाकाव्ये [ अर्थात् आर्षमहाकाव्यं इति सञ्ज्ञा साहित्यदर्पणानुसारं परन्तु अन्यान्यालङ्कारिकाः शास्त्रकाव्यान्तर्गते तस्य सञ्ज्ञा मन्यन्ते इतिभावः ]
Q14. आचार्यविश्वनाथस्य षोडशभाषामयी रचना का ?
करम्भकं तु भाषाभिर्विविधाभिर्विनिर्मितम् ।
यथा मम- षोडशभाषामयी प्रशस्तिरत्नावली ।
Q15. महाकाव्यस्य लक्षणं नास्ति-
महाकाव्यलक्षणम् – सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः
सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः ।
एकवंशभवा भूपाः कुलजा बहवोऽपि वा ॥
शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते ।
अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसन्धयः ॥
इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ।
चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् ।।
आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा ।
क्वचिन्निन्दा खलादीनां सतां च गुणकीर्तनम् ॥
एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः ।
नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह ॥
नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते । ॥ ६.३१५ ॥
Q16. श्रृंगारे का वृत्तिः अस्ति ?
श्रृगारे कैशिकी वीरे सात्वत्यारभटी पुनः।
रसे रौद्रे च वीभत्से च वृत्तिः सर्वत्र भारती ।।
Q17. अधोलिखितेषु छन्दोबद्धपदं पद्यं क्रमेण नियोजयतु –
1. कुलकम्
2. सांदानिकम्
3. कलापकम्
4. मुक्तकम्
5. युग्मकम्
Q18. “ आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ” इति कस्य प्रकाराः सन्ति ?
Q19. गद्यकाव्यप्रकाराणि वर्तते –
Q20. भ्रम धार्मिक ! विस्त्रब्धः स श्वाऽद्य मारितस्तेन ।
गोदानदी कच्छकुञ्जवासिना दृप्तसिंहेन ॥
कस्य निर्देशं नास्ति ?
अत्र ‘भ्रम धार्मिक’ – इत्यतो भ्रमणस्य विधिः प्रकृतेऽनुपयुज्यमानतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाशङ्का न कार्या। यत्र खलु विधिनिषेधावुत्पत्स्यमानावेव निषेधविध्योः पर्यवस्यतस्तत्रैव तदवसरः । यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषेधयोर्निषेधविधी अवगम्येते तत्र ध्वनित्वमेव ।
तदुक्तम्-
‘क्वचिद्बाध्यतया ख्यातिः क्वचित् ख्यातस्य बाधनम् । पूर्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु ॥’
Q21. अविवक्षितवाच्योऽपरनाम किं ?
तत्राविवक्षितवाच्यो नाम लक्षणमूलो ध्वनिः ।
Q22. साहित्यदर्पणानुसारं उत्तमकाव्यं भवति –
Q23. क्वचिद्बाध्यतया ख्यातिः क्वचित् ख्यातस्य बाधनम् ।
पूर्वत्र लक्षणैव स्यादुत्तरमाभिधैव तु ॥
इत्यस्यांशः केन संबंधितम् ?
Q24. साहित्यदर्पणानुसारं फलावाप्तौ अतित्वरान्वितः व्यापारः भवति । [UGC NET DEC 2015 ]
प्रयत्नस्तु फलावाप्तौ व्यापारोऽतित्वरान्वितः।
Q25. साहित्यदर्पणानुसारेण एषु कस्य रूपकमध्ये गणनं न भवति – [UGC NET JAN 2017 ]
नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः ।
ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश ॥ सा. द. 6.3
आशा है कि आपको साहित्यदर्पण के बहुविकल्पीय प्रश्न Sahitya darpan MCQs उपयोगी और जानकारीपूर्ण लगा होगा। यदि अच्छा लगा हो तो कृपया इसे अपने मित्रों और विद्यार्थियों के साथ साझा करें, ताकि अधिक से अधिक लोग इसका लाभ उठा सकें। यदि इसमें किसी प्रकार की त्रुटि हो गई हो या आपका कोई प्रश्न हो, या आपको कोई सुधार या सुझाव देना हो, तो कृपया नीचे कमेंट में अवश्य बताएं। आपके सुझाव हमारे लिए अत्यंत मूल्यवान हैं।
ऐसी ही उपयोगी जानकारी और मार्गदर्शन के लिए जुड़े रहें gopath.in & boks.in के साथ आपका सहयोग और विश्वास ही हमारी प्रेरणा है।
इसे भी पढ़ें –