प्रिय विद्यार्थियों, इस पोस्ट में CUET PG B.Ed पूर्व वर्ष प्रश्न पत्र 2025 (COQP05) Sanskrit का समाधान है। जो मुख्यतः B.Ed Language प्रवेश परीक्षा के लिए अत्यंत उपयोगी है।
Q51. ‘त्रै+अते’ इत्यत्र सन्धिं कुरुत –
Q52. ‘कवि’ शब्दस्य सप्तमी-विभक्तौ एकवचने किं रूपं भवति ?
Q53. ‘नी’ धातोः तङ्-लकारे मध्यम-पुरुषबहुवचने किं रूपं भवति ?
Q54. ‘तद्_अभेदो य उपमानोपमेययोः’ इत्यत्र रिक्तस्थानं पूरयत –
Q55. ‘सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम्’ इत्यत्र किं क्रिया-पदम् ?
Q56. इन्द्रवज्रा-छन्दसि प्रतिपादं कति वर्णाः भवन्ति ?
Q57. ‘हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा’ इयं पंक्तिः कस्मिन् ग्रन्थे अस्ति ?
इसे भी पढ़ें :- CUET PG B.Ed PYQS 2025 Hindi (COQP05) हिंदी
Q58. ‘गौ’ शब्दस्य तृतीया-विभक्तौ एकवचने किं रूपम् ?
Q59. ‘वागर्थीविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ’ इत्यत्र किं कर्मपदम् ?
Q60. ‘लब्ध्म्’ इत्यस्मिन् पदे कः प्रत्ययः ?
Q61. ‘अर्थधर्मौ’ इत्यत्र कः समासः ?
Q62. कालानुसारेण क्रमः साधनीयः –
(A). कालिदासः
(B). भवभूतिः
(C). भासः
(D). बाणभट्टः
Q63. ‘आत्मन्’ शब्दस्य चतुर्थीविभक्तौ एकवचने किं रूपं भवति ?
Q64. प्रथमां सूची द्वितीयया सूच्या सह मेलयत –
सूची-I |
सूची-II |
(A). भवभूतिः |
(I). कादम्बरी |
(B). भर्तृहरिः |
(II). उत्तररामचरितम् |
(C). अम्बिकादत्तव्यासः |
(III). नीतिशतकम् |
(D). बाणभट्टः |
(IV). शिवराजविजयम् |
Q65. प्रथमां सूची द्वितीयया सूच्या सह मेलयत –
सूची-I |
सूची-II |
(A). शिशुपालवधम् |
(I). द्राविंशतिसर्गाः |
(B). किरातार्जुनीयम् |
(II). एकोनविंशतिसर्गाः |
(C). नैषधीयचरितम् |
(III). विंशतिसर्गाः |
(D). रघुवंशम् |
(IV). अष्टादशसर्गाः |
इसे भी पढ़ें :- CUET PG B.Ed PYQS 2024 (COQP05) हिंदी एवं संस्कृत
Q66. नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगे ……….विभक्तिः भवति । इत्यत्र रिक्तस्थानं पूरयत –
Q67. क्रमेण व्यवस्थापयत –
(A). अधिकरणम्
(B). करणम्
(C). अपादानम्
(D). सम्प्रदानम्
(E). कर्ता
Q68. नैषधीयचरिते महाकाव्ये नायकः कः ?
Q69. भूभृत्-शब्दस्य द्वितीया-विभक्तौ रूपाणि भवन्ति –
(A). भूभृतम्
(B). भूभृतौ
(C). भूभृतः
(D). भूभृतोः
Q70. ‘हन्’ धातोः लट्-लकारे प्रथमपुरुषे रूपाणि भवन्ति –
(A). हध
(B). घ्नन्ति
(C). हतः
(D). हन्ति
Q71. शुद्धानि वाक्यानि चिनुत –
(A). त्वं सफलः भव
(B). त्वं आयुष्मान् भूयाः
(C). त्वं स्वस्मिन् गृहे भवेः
(D). त्वं विद्यालये भवतु
Q72. प्रथमां सूची द्वितीयया सूच्या सह मेलयत –
सूची-I |
सूची-II |
(A). अनुविष्णु |
(I). द्वन्द्वः |
(B). नखभिन्नः |
(II). अव्ययीभावसमासः |
(C). चित्रगुः |
(III). तत्पुरुषसमासः |
(D). शिवकेशवौ |
(IV). बहुव्रीहिः |
(गद्यांश for Q73–75)
जीवने परिश्रमेण सर्वाणि कार्याणि सिध्यन्ति । केवलं मनसा चिंतनेन कार्याणि पूर्णानि न भवन्ति, अतः अस्माभिः सर्वदा परिश्रमः कर्त्तव्यः । एवं कथ्यते यत् यदि सिंहः शयनं करोति पुनरपि सः चिन्तयति यत् पशवः स्वयमेव तस्य मुखे प्रवेशं कुर्युः, इति कदापि न सम्भवति । उदरपूर्त्यर्थं तेन अपि परिश्रमः करणीयः ।
Q73. जीवने केन सर्वाणि कार्याणि सिध्यन्ति ?
Q74. अस्माभिः सर्वदा……….कर्त्तव्यः । इत्यत्र रिक्तस्थानं पूरयत –
Q75. उदरपूर्त्यर्थं तेन अपि परिश्रमः करणीयः – अत्र ‘तेन’ इति शब्दः कस्मै प्रयुक्तः ?
आशा है कि आपको वेद, CUET PG B.Ed PYQS Sanskrit 2025 (COQP05) उपयोगी और जानकारीपूर्ण लगा होगा। ऐसी ही उपयोगी जानकारी और मार्गदर्शन के लिए जुड़े रहें gopath.in & boks.in के साथ आपका सहयोग और विश्वास ही हमारी प्रेरणा है।